दैव्या॑वध्वर्यू॒ऽआ ग॑त॒ꣳ रथे॑न॒ सूर्य॑त्वचा। मध्वा॑ य॒ज्ञꣳ सम॑ञ्जाथे। तं प्रत्नथा॑। अ॒यं वेनः। चित्रं दे॒वाना॑म् ॥३३ ॥
दैव्यौ॑। अ॒ध्व॒र्यू॒ऽइत्य॑ध्वर्यू। आ। ग॒त॒म्। रथे॑न। सूर्य॑त्व॒चेति॒ सूर्य॑त्वचा ॥ मध्वा॑। य॒ज्ञम्। सम्। अ॒ञ्जा॒थे॒ऽ इत्य॑ञ्जाथे ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(दैव्यौ) देवेषु दिव्येषु विद्वत्सु गुणेषु वा कुशलौ (अध्वर्यू) यावात्मनोऽध्वरमहिंसायज्ञमिच्छन्तौ (आ) (गतम्) गच्छतम् (रथेन) गमकेन यानेन (सूर्यत्वचा) सूर्य इव देदीप्यमाना त्वग्बाह्यमावरणं यस्य तेन (मध्वा) कोमलसामग्र्या (यज्ञम्) यात्राख्यं सङ्ग्रामाख्यं हवनाख्यं वा (सम्) (अञ्जाथे) ॥३३ ॥